Skip to content

हनुमान चालीसा संस्कृत Hanuman Chalisa in Sanskrit

    हनुमान चालीसा संस्कृतभाषायां लिखिता महत्त्वपूर्णा प्रार्थना अस्ति या हिन्दुधर्मस्य अनुयायिनां कृते अत्यन्तं महत्त्वपूर्णा अस्ति। एषा प्रार्थना स्वभक्तैः नित्यं स्मर्यमाणस्य हनुमतः भगवतः महत्त्वं, शक्तिः, प्रेम च व्यज्यते । हनुमान चालीसा पाठं कृत्वा भक्ताः मनः, वाक्, कर्म च संयमिताः भूत्वा स्वजीवने सकारात्मकतां सफलतां च प्रति गच्छन्ति।

    एषा प्रार्थना संस्कृतेन सुन्दरं लिखिता अस्ति, येन भक्तानां दिव्यभावः भवति । अस्य भाषा सरलं सुलभं च अस्ति, येन सर्वे अवगन्तुं शक्नुवन्ति । हनुमानचालिसस्य श्लोकाः भक्तानां शान्तिं आत्मानन्दं च अनुभवन्ति, भगवता हनुमतेन सह संयोजयन्ति च। एतस्य प्रार्थनायाः पाठेन मनुष्यः धार्मिकाध्यात्मिकप्रगतेः मार्गं प्रति नेति, येन जीवने यथार्थसुखं प्राप्तुं साहाय्यं भवति ।

    हनुमान चालीसा संस्कृतभाषायां लिखिता अस्ति, यस्मिन् भाषां ध्यानं च सम्पादयति । अस्य श्लोकाः भक्तानां जीवने भगवतः हनुमानस्य आध्यात्मिक-अमरत्वस्य या अनन्तशक्तिः प्रेम च बोधयति । एतस्य चालीसस्य पाठेन भक्ताः मानवतायाः सेवायाः, धर्मस्य अनुसरणस्य, समर्पणस्य च भावनायाः प्रेरणाम् अयच्छन्ति ।

    हनुमान चालीसा संस्कृत – Hanuman Chalisa in Sanskrit

    दोहा

    हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।
    फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ॥

    स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः ।
    दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ ॥

    चौपाई

    जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः ।
    जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ॥ (१)

    दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
    अञ्जना जननी यस्य देवो वायुः पिता स्वयम् ॥ (२)

    हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः ।
    कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः ॥ (३)

    काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।
    कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ॥ (४)

    वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च ।
    स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ॥ (५)

    नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु ।
    तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले ॥ (६)

    विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः ।
    रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ॥ (७)

    राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् ।
    वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः ॥ (८)

    वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः ।
    लङ्का दग्धा कपीशेन विकटरूपधारिणा । (९)

    हताः रूपेण भीमेन सकलाः रजनीचराः ।
    कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः ॥ (१०)

    जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा
    रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः ॥ (११)

    प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम् ।
    प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च ॥ (१२)

    यशो मुखैः सहस्रैश्च गीयते तव वानर ।
    हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः ॥ (१३)

    सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
    भारतीसहितः शेषो देवर्षिः नारदः खलु ॥ (१४)

    कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
    पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने ॥ (१५)

    उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता ।
    वानराणामधीपोऽभूद् रामस्य कृपया हि सः ॥ (१६)

    तवैव चोपदेशेन दशवक्त्रसहोदरः ।
    प्राप्नोति नृपत्वं सः जानाति सकलं जगत् ॥ (१७)

    योजनानां सहस्राणि दूरे भुवः स्थितो रविः ।
    सुमधुरं फलं मत्वा निगीर्णः भवता पुनः ॥ (१८)

    मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
    गतवानब्धिपारं सः नैतद् विस्मयकारकम् ॥ (१९)

    यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
    भवद्कृपाप्रसादेन सुकराणि पुनः खलु ॥ (२०)

    द्वारे च कोशलेशस्य रक्षको वायुनन्दनः ।
    तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति ॥ (२१)

    लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च ।
    भवति रक्षके लोके भयं मनाग् न जायते ॥ (२२)

    समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
    कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ॥ (२३)

    श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः ।
    भूतादयः पिशाचाश्च पलायन्ते हि दूरतः ॥ (२४)

    हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये ।
    नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च ॥ (२५)

    मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः ।
    दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः ॥ (२६)

    नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
    तेषामपि च कार्याणि सिद्धानि भवता खलु ॥ (२७)

    कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः ।
    प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः॥ (२८)

    कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् ।
    यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ॥ (२९)

    साधूनां खलु सन्तानां रक्षयिता कपीश्वरः ।
    असुराणाञ्च संहर्ता रामस्य प्रियवानर ॥ (३०)

    सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् ।
    दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ॥ (३१)

    कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
    रामस्य कोशलेशस्य पादारविन्दवन्दनात् ॥ (३२)

    पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् ।
    जन्मनां कोटिसङ्ख्यानां दूरीभवन्ति पातकाः ॥ (३३)

    देहान्ते च पुरं रामं भक्ताः हनुमतः सदा ।
    प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ॥ (३४)

    देवानामपि सर्वेषां संस्मरणं वृथा खलु ।
    कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ॥ (३५)

    करोति सङ्कटं दूरं सङ्कटमोचनः कपिः ।
    नाशयति च दुःखानि केवलं स्मरणं कपेः ॥ (३६)

    जयतु वानरेशश्च जयतु हनुमद् प्रभुः ।
    गुरुदेवकृपातुल्यम् करोतु मम मङ्गलम् ॥ (३७)

    श्रद्धया येन केनापि शतवारं च पठ्यते ।
    मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ॥ (३८)

    स्तोत्रं तु रामदूतस्य चत्वारिंशच्च सङ्ख्यकम् ।
    पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ॥ (३९)

    सर्वदा रघुनाथस्य तुलसी सेवकः परम् ।
    (सर्वदा रघुनाथस्य रवीन्द्रः सेवकः परम्)
    विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ॥ (४०)

    दोहा

    विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीश ।
    सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ॥

    Leave a Reply

    Your email address will not be published. Required fields are marked *